।।भक्तामर स्तोत्र ( संस्कृत)।। Bhaktamar Stotra

भक्तामर प्रणत मौलिमणि प्रभाणा।
मुद्योतकं दलित पाप तमोवितानम् ॥
सम्यक् प्रणम्य जिन पादयुगं युगादा।
वालंबनं भवजले पततां जनानाम् ॥१॥


यः संस्तुतः सकल वाङ्मय तत्वबोधा।
द् उद्भूत बुद्धिपटुभिः सुरलोकनाथैः ॥
स्तोत्रैर्जगत्त्रितय चित्त हरैरुदरैः।
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥


बुद्ध्या विनाऽपि विबुधार्चित पादपीठ।
स्तोतुं समुद्यत मतिर्विगतत्रपोऽहम् ॥
बालं विहाय जलसंस्थितमिन्दु बिम्ब।
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥३॥


वक्तुं गुणान् गुणसमुद्र शशाङ्क्कान्तान्।
कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या ॥
कल्पान्त काल् पवनोद्धत नक्रचक्रं।
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥


सोऽहं तथापि तव भक्ति वशान्मुनीश।
कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः ॥
प्रीत्यऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्रं।
नाभ्येति किं निजशिशोः परिपालनार्थम् ॥५॥


अल्पश्रुतं श्रुतवतां परिहासधाम्।
त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् ॥
यत्कोकिलः किल मधौ मधुरं विरौति।
तच्चारुचूत कलिकानिकरैकहेतु ॥६॥


त्वत्संस्तवेन भवसंतति सन्निबद्धं।
पापं क्षणात् क्षयमुपैति शरीर भाजाम् ॥
आक्रान्त लोकमलिनीलमशेषमाशु।
सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥


मत्वेति नाथ्! तव् संस्तवनं मयेद।
मारभ्यते तनुधियापि तव प्रभावात् ॥
चेतो हरिष्यति सतां नलिनीदलेषु।
मुक्ताफल द्युतिमुपैति ननूदबिन्दुः ॥८॥


आस्तां तव स्तवनमस्तसमस्त दोषं।
त्वत्संकथाऽपि जगतां दुरितानि हन्ति ॥
दूरे सहस्त्रकिरणः कुरुते प्रभैव।
पद्माकरेषु जलजानि विकाशभांजि ॥९॥


नात्यद् भूतं भुवन भुषण भूतनाथ।
भूतैर् गुणैर् भुवि भवन्तमभिष्टुवन्तः ॥
तुल्या भवन्ति भवतो ननु तेन किं वा।
भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥


दृष्टवा भवन्तमनिमेष विलोकनीयं।
नान्यत्र तोषमुपयाति जनस्य चक्षुः ॥
पीत्वा पयः शशिकरद्युति दुग्ध सिन्धोः।
क्षारं जलं जलनिधेरसितुं क इच्छेत् ॥११॥


यैः शान्तरागरुचिभिः परमाणुभिस्तवं।
निर्मापितस्त्रिभुवनैक ललाम भूत ॥
तावन्त एव खलु तेऽप्यणवः पृथिव्यां।
यत्ते समानमपरं न हि रूपमस्ति ॥१२॥


वक्त्रं क्व ते सुरनरोरगनेत्रहारि।
निःशेष निर्जित जगत् त्रितयोपमानम् ॥
बिम्बं कलङ्क मलिनं क्व निशाकरस्य।
यद्वासरे भवति पांडुपलाशकल्पम् ॥१३॥


सम्पूर्णमण्ङल शशाङ्ककलाकलाप्।
शुभ्रा गुणास्त्रिभुवनं तव लंघयन्ति ॥
ये संश्रितास् त्रिजगदीश्वर नाथमेकं।
कस्तान् निवारयति संचरतो यथेष्टम् ॥१४॥


चित्रं किमत्र यदि ते त्रिदशांगनाभिर्।
नीतं मनागपि मनो न विकार मार्गम् ॥
कल्पान्तकालमरुता चलिताचलेन।
किं मन्दराद्रिशिखिरं चलितं कदाचित् ॥१५॥


निर्धूमवर्तिपवर्जित तैलपूरः।
कृत्स्नं जगत्त्रयमिदं प्रकटी करोषि ॥
गम्यो न जातु मरुतां चलिताचलानां।
दीपोऽपरस्त्वमसि नाथ् जगत्प्रकाशः ॥१६॥


नास्तं कादाचिदुपयासि न राहुगम्यः।
स्पष्टीकरोषि सहसा युगपज्जगन्ति ॥
नाम्भोधरोदर निरुद्धमहाप्रभावः।
सूर्यातिशायिमहिमासि मुनीन्द्र! लोके ॥१७॥


नित्योदयं दलितमोहमहान्धकारं।
गम्यं न राहुवदनस्य न वारिदानाम् ॥
विभ्राजते तव मुखाब्जमनल्प कान्ति।
विद्योतयज्जगदपूर्व शशाङ्कबिम्बम् ॥१८॥


किं शर्वरीषु शशिनाऽह्नि विवस्वता वा।
युष्मन्मुखेन्दु दलितेषु तमस्सु नाथ ॥
निष्मन्न शालिवनशालिनि जीव लोके।
कार्यं कियज्जलधरैर् जलभार नम्रैः ॥१९॥


ज्ञानं यथा त्वयि विभाति कृतावकाशं।
नैवं तथा हरिहरादिषु नायकेषु ॥
तेजः स्फुरन्मणिषु याति यथा महत्वं।
नैवं तु काच शकले किरणाकुलेऽपि ॥२०॥


मन्ये वरं हरि हरादय एव दृष्टा।
दृष्टेषु येषु हृदयं त्वयि तोषमेति ॥
किं वीक्षितेन भवता भुवि येन नान्यः।
कश्चिन्मनो हरति नाथ! भवान्तरेऽपि ॥२१॥


स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्।
नान्या सुतं त्वदुपमं जननी प्रसूता ॥
सर्वा दिशो दधति भानि सहस्त्ररश्मिं।
प्राच्येव दिग् जनयति स्फुरदंशुजालं ॥२२॥


त्वामामनन्ति मुनयः परमं पुमांस।
मादित्यवर्णममलं तमसः परस्तात् ॥
त्वामेव सम्यगुपलभ्य जयंति मृत्युं।
नान्यः शिवः शिवपदस्य मुनीन्द्र! पन्थाः ॥२३॥


त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं।
ब्रह्माणमीश्वरम् अनंतमनंगकेतुम् ॥
योगीश्वरं विदितयोगमनेकमेकं।
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२४॥


बुद्धस्त्वमेव विबुधार्चित बुद्धि बोधात्।
त्वं शंकरोऽसि भुवनत्रय शंकरत्वात् ॥
धाताऽसि धीर! शिवमार्ग विधेर्विधानात्।
व्यक्तं त्वमेव भगवन्! पुरुषोत्तमोऽसि ॥२५॥


तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ।
तुभ्यं नमः क्षितितलामलभूषणाय ॥
तुभ्यं नमस्त्रिजगतः परमेश्वराय।
तुभ्यं नमो जिन! भवोदधि शोषणाय ॥२६॥


को विस्मयोऽत्र यदि नाम गुणैरशेषैस्।
त्वं संश्रितो निरवकाशतया मुनीश! ॥
दोषैरूपात्त विविधाश्रय जातगर्वैः।
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥


उच्चैरशोक तरुसंश्रितमुन्मयूख।
माभाति रूपममलं भवतो नितान्तम् ॥
स्पष्टोल्लसत्किरणमस्त तमोवितानं।
बिम्बं रवेरिव पयोधर पार्श्ववर्ति ॥२८॥


सिंहासने मणिमयूखशिखाविचित्रे।
विभ्राजते तव वपुः कनकावदातम् ॥
बिम्बं वियद्विलसदंशुलता वितानं।
तुंगोदयाद्रि शिरसीव सहस्त्ररश्मेः ॥२९॥


कुन्दावदात चलचामर चारुशोभं।
विभ्राजते तव वपुः कलधौतकान्तम् ॥
उद्यच्छशांक शुचिनिर्झर वारिधार।
मुच्चैस्तटं सुर गिरेरिव शातकौम्भम् ॥३०॥


छत्रत्रयं तव विभाति शशांककान्त।
मुच्चैः स्थितं स्थगित भानुकर प्रतापम् ॥
मुक्ताफल प्रकरजाल विवृद्धशोभं।
प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् ॥३१॥


गम्भीरतारवपूरित दिग्विभागस्।
त्रैलोक्यलोक शुभसंगम भूतिदक्षः ॥
सद्धर्मराजजयघोषण घोषकः सन्।
खे दुन्दुभिर्ध्वनति ते यशसः प्रवादी ॥३२॥


मन्दार सुन्दरनमेरू सुपारिजात।
सन्तानकादिकुसुमोत्कर- वृष्टिरुद्धा ॥
गन्धोदबिन्दु शुभमन्द मरुत्प्रपाता।
दिव्या दिवः पतित ते वचसां ततिर्वा ॥३३॥


शुम्भत्प्रभावलय भूरिविभा विभोस्ते।
लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ती ॥
प्रोद्यद् दिवाकर निरन्तर भूरिसंख्या।
दीप्त्या जयत्यपि निशामपि सोम सौम्याम् ॥३४॥


स्वर्गापवर्गगममार्ग विमार्गणेष्टः।
सद्धर्मतत्वकथनैक पटुस्त्रिलोक्याः ॥
दिव्यध्वनिर्भवति ते विशदार्थसत्व।
भाषास्वभाव परिणामगुणैः प्रयोज्यः ॥३५॥


उन्निद्रहेम नवपंकज पुंजकान्ती।
पर्युल्लसन्नखमयूख शिखाभिरामौ ॥
पादौ पदानि तव यत्र जिनेन्द्र! धत्तः।
पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥३६॥


इत्थं यथा तव विभूतिरभूज्जिनेन्द्र।
धर्मोपदेशनविधौ न तथा परस्य ॥
यादृक् प्रभा दिनकृतः प्रहतान्धकारा।
तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ॥३७॥


श्च्योतन्मदाविलविलोल कपोलमूल।
मत्तभ्रमद् भ्रमरनाद विवृद्धकोपम् ॥
ऐरावताभमिभमुद्धतमापतन्तं।
दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३८॥


भिन्नेभ कुम्भ गलदुज्जवल शोणिताक्त।
मुक्ताफल प्रकर भूषित भुमिभागः ॥
बद्धक्रमः क्रमगतं हरिणाधिपोऽपि।
नाक्रामति क्रमयुगाचलसंश्रितं ते ॥३९॥


कल्पांतकाल पवनोद्धत वह्निकल्पं।
दावानलं ज्वलितमुज्जवलमुत्स्फुलिंगम् ॥
विश्वं जिघत्सुमिव सम्मुखमापतन्तं।
त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥४०॥


रक्तेक्षणं समदकोकिल कण्ठनीलं।
क्रोधोद्धतं फणिनमुत्फणमापतन्तम् ॥
आक्रामति क्रमयुगेन निरस्तशंकस्।
त्वन्नाम नागदमनी हृदि यस्य पुंसः ॥४१॥


वल्गत्तुरंग गजगर्जित भीमनाद।
माजौ बलं बलवतामपि भूपतिनाम्! ॥
उद्यद्दिवाकर मयूख शिखापविद्धं।
त्वत्- कीर्तनात् तम इवाशु भिदामुपैति ॥४२॥


कुन्ताग्रभिन्नगज शोणितवारिवाह।
वेगावतार तरणातुरयोध भीमे ॥
युद्धे जयं विजितदुर्जयजेयपक्षास्।
त्वत्पाद पंकजवनाश्रयिणो लभन्ते ॥४३॥


अम्भौनिधौ क्षुभितभीषणनक्रचक्र।
पाठीन पीठभयदोल्बणवाडवाग्नौ ॥
रंगत्तरंग शिखरस्थित यानपात्रास्।
त्रासं विहाय भवतःस्मरणाद् व्रजन्ति ॥४४॥


उद्भूतभीषणजलोदर भारभुग्नाः।
शोच्यां दशामुपगताश्च्युतजीविताशाः ॥
त्वत्पादपंकज रजोऽमृतदिग्धदेहा।
मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥४५॥


आपाद कण्ठमुरूश्रृंखल वेष्टितांगा।
गाढं बृहन्निगडकोटिनिघृष्टजंघाः ॥
त्वन्नाममंत्रमनिशं मनुजाः स्मरन्तः।
सद्यः स्वयं विगत बन्धभया भवन्ति ॥४६॥


मत्तद्विपेन्द्र मृगराज दवानलाहि।
संग्राम वारिधि महोदर बन्धनोत्थम् ॥
तस्याशु नाशमुपयाति भयं भियेव।
यस्तावकं स्तवमिमं मतिमानधीते ॥४७॥


स्तोत्रस्त्रजं तव जिनेन्द्र! गुणैर्निबद्धां।
भक्त्या मया विविधवर्णविचित्रपुष्पाम् ॥
धत्ते जनो य इह कंठगतामजस्रं।
तं मानतुंगमवशा समुपैति लक्ष्मीः ॥४८॥


भक्तामर स्तोत्र आचार्य मानतुंग महामुनिमहाराज द्वारा रचित किया गया है